Story Week 3 Flashcards

1
Q

सत्यनिष्ठः वृक्षछेदकः

एकस्मिन् ग्रामे एकः वृक्षछेदकः वसति | सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान्
विक्रीणाति, धनं सम्पादयति च |
एकस्मिन् दिने सः वने नदीतीरे वृक्षछेदनं करोति | तदा तस्य परशुः जले पतति | वृक्षछेदकः रोदिति “हा… अहम् इदानीं किं करोमि? अहं कथं वृक्षछेदनं करोमि? अहं कथं धनं सम्पादयामि?” इति | तदा तत्र देवः आगच्छति | देवः वृक्षछेदकं पृच्छति “ हे वृक्षछेदक! किमर्थं त्वं रोदिषि “? इति | वृक्षछेदकः वदति “मम परशुः जले अपतत् | अहम् कथं धनं सम्पादयामि?” इति | तदा देवः वदति “चिन्ता मास्तु, अहम् तुभ्यं साहाय्यं करोमि” इति | झटिति देवः जलस्य अन्तः गच्छति, शीघ्रं बहिः आगच्छति | देवः एकं स्वर्णपरशुम् आनयति, वृक्षछेदकं पृच्छति “हे वृक्षछेदक! एषः परशुः तव वा?” इति | वृक्षछेदकः वदति “न न | एषः परशुः मम न” इति | देवः पुनः जलस्य अन्तः गच्छति, शीघ्रं बहिः आगच्छति | सा एकं रजतपरशुं आनयति, वृक्षछेदकं पृच्छति “हे वृक्षछेदक! एषः परशुः तव वा?” इति | वृक्षछेदकः वदति “न न | एषः परशुः मम न” इति | देवः पुनः जलस्य अन्तः गच्छति, शीघ्रं बहिः आगच्छति, एकं लोहपरशुम् आनयति च | देवः वृक्षछेदकं पृच्छति “हे वृक्षछेदक! एषः परशुः तव वा?” इति | वृक्षछेदकः वदति “आम् | एषः परशुः मम “ इति | तदा देवः वदति “त्वं सत्यनिष्ठः असि | सत्यम् एव वदसि | अतः अहं तुभ्यं स्वर्णपरशुं, रजतपरशुं, लोहपरशुं च ददामि” इति| वृक्षछेदकः सर्वं स्वीकरोति | सन्तोषेण गृहं गच्छति |

A

The Honest Woodcutter

In a village lives a wood cutter. Daily he goes to the forest, cuts the trees, takes the wood, goes to the shop, sells the wood and earns money.
One day he cuts wood in the forest on the banks of a river. During that time his axe falls into the water. The woodcutter cries “haaa… what do I do now? How will I cut the trees? How will I earn money”? At that time there comes God. The God asks the woodcutter “hey woodcutter! Why are you crying?” The woodcutter says “my axe fell in the water. Now, how will I earn money?” The God says, “don’t worry, I will help you”. Immediately the God goes into the water and comes back quickly. The God brings a golden axe, asks the woodcutter “hey Woodcutter! Is this axe yours?” The woodcutter says “no no. This is not my axe”. The God again goes into the water and comes back quickly. He brings a silver axe and asks the woodcutter “hey wood cutter! Is this axe yours”? The woodcutter says “no no. This is not my axe”. The God again goes into the water, comes out quickly and brings an iron axe. The God asks the wood cutter “hey woodcutter! Is this your axe”? The woodcutter says “yes. This is my axe”. The God says “you are honest. You speak only the truth. So, I am giving you the golden axe, the silver axe and the iron axe”. The woodcutter takes everything and happily goes home.

How well did you know this?
1
Not at all
2
3
4
5
Perfectly