Prahelika Flashcards
(10 cards)
सीमन्तिषु का शान्ता ? राजा कोऽभूत् गुणोत्तम: ?
विदुषां का सदा वन्द्या ? अत्रैवोक्तं न बुध्यते ||
Sita, Rama, Vidya
पुरुष: कीदृशो वेत्ति प्रायेण सकला: कला: |
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि क: स्यात् सुरालया: ||
नागरिक
विष्णो: का वल्लभा देवि लोकत्रितयचारिणी ?
वर्णावाद्यन्तिमौ दत्तवा क: शब्द: तुल्यवाचक: ?
samanam
न तस्यादि: न तस्यानत: मध्ये य: तस्य तिष्ठति |
तवाप्स्यसि ममाप्यस्ति यदि जानासि तद्वद ||
nayanam
दन्तैर्हीन: शिलाभक्षी निर्जीवो बहुभाषक: |
गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ||
padaraksha
अपदो दुरगामी च साक्षरो न च पण्डित: |
अमुख स्फुटवक्ता च यो जानाति स पण्डित: ||
Samapatram
वृक्षाग्रवासी न च पक्षिराजः त्रिणेत्रधारी न च शूलपाणिः |
त्वग्वस्त्रधारी न च सिद्धयोजी जलं च बिभ्रन्न घटो न मेघः ||
Narikelam
सानुजः काननं गत्वा यातुधानान् जघान कः |
मध्ये वर्णत्रयं दत्तवा रावण: कीदृशो वद ||
rakshasottamaH
अस्ति नास्थि शिरो नास्ति बाहुरस्ति निरङ्गुलि: |
नास्ति पादद्वयम् गाढम् अङ्गमालिङ्गति स्वयम् ||
yutakam
किमिच्छति नर: काश्यां ? भूपानां को रणे हित: ?
को वन्द्य: सर्वदेवानाम् ? दीयतामेकमुत्तरम् |
Mrutyunjaya