da_antesu_16 Flashcards

1
Q

अत्ति

A

अद् अदँ भक्षणे अदादिः परस्मैपदी सकर्मकः अनिट् to eat to binge

अद [Printed book page 0019]
(21) “अद भक्षणे” (II-अदादिः-1011-सक-अनि. पर.)
आदकः-दिका, आदकः-दिका, 5 जिघत्सकः-त्सिका; 6 अत्ता-त्री, आदयिता-त्री, जिघत्सिता, त्री; A अदन्-ती, आदयन्-न्ती, जिघत्सन्-न्ती;
अत्स्यन्-ती-न्ती, आदयिष्यन्-ती-न्ती, जिघत्सिष्यन्-ती-न्ती;
[Page0020+ 41]

आ 1 दयमानः, आदयिष्यमाणः;
सस्या 2 त्, आमात्, क्रव्यात् B 3, क्रव्या 4 दः, प्रा C णात्, आमिषा D दः; 5 जग्धम्-ग्धः-ग्धवान्, 6 अन्नम्-न्नवान्; आदितम्-तः, जिघत्सितम्-तः-तवान्, 7 घसः, अन्ना 8 दी, पुत्रादिनी, आदिवान्, जक्षि 9 वान्, अद् 10 मरः, जिघत् E सुः,
अत्तव्यम्, आदयितव्यम्, जिघत्सितव्यम्;
अदनीयम्, आदनीयम्, जिघत्सनीयम्;
आद्यम्, आद्यम्, जिघत्स्यम्;
ईषददः-दुरदः-स्वदः;
अद्यमानः, आद्यमानः, जिघत्स्यमानः; 11 घासः, घसः, 12 न्यादः F, निघसः, आदः, G संघसः 13, प्रघसः, जिघत्सः; 14 अत्तुम्-आदको (वा याति), आदयितुम्, जिघत्सितुम्;
[Page0021+ 34]

अदनम्, आदनम्, जिघत्सनम्;
जग्धिः, आदना, जिघत्सा, जिघत्सयिषा;
जग्ध्वा, आदयित्वा, जिघत्सित्वा;
प्रजग्ध्य, समाद्य, प्रजिघत्स्य,
आदम् 2, जग्ध्वा 2, आदम् 2, आदयित्वा 2, जिघत्सम् 2; जिघत्सित्वा 2 1 अत्त्रिः, 2 अद्रिः;
Footnote 5. ‘लुङ्सनोर्घसॢ’ (2-4-37) इति
घसॢ । ‘सस्स्यार्धधातुके’ (7-4-49)
इति सकारस्य तकारः ।
Footnote 6. ‘एकाच उपदेशे—’ (7-2-10)
इतीण्णिषेधः ।
Footnote A. ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः’ धा. का. 2. 44.
Footnote 1. ‘अदेः प्रतिषेधः’ (वा-1-3-87) इति
अस्य भक्षणार्थत्वेऽपि आत्मनेप-
दित्वमेव ।
Footnote 2. ‘अदोऽनन्ने’ (3-2-68) इति विट् ।
Footnote B. ‘व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिस्स निशाचरैः’ भ. का. 6-94.
Footnote 3. ‘क्रव्ये च’ (3-2-69) इति विट् ।
Footnote 4. ‘वाऽसरूपो—’ (3-1-94) इति न्याये-
नाणपि ।
Footnote C. ‘वालितो दूरभाग् रामः बाणं प्राणादमत्यजत्’ भ. का. 6. 123.
Footnote D. ‘तव विदितविषादो दृष्टकृत्स्नामिषादः’ भ. का. 10-17.
Footnote 5. ‘अदो जग्धिर्ल्यप् ति किति’ (2-4-36)
इति जग्ध्यादेशः ।
Footnote 6. ‘बहुलं तणि, अन्नवधक—’ (2-4-54)
इति वार्तिकात् प्रयोगोऽयमपि साधुः ।
‘अन्नाण्णः’ (4-4-85) इति
निर्देशाच्च ।
Footnote 7. ‘अच्युपसंख्यानम्-’ (वा. 2-4-37)
इति घसॢ ।
Footnote 8. ‘सुप्यजातौ—’ (3-2-78) इति णिनिः ।
Footnote 9. ‘लिट्यन्यतरस्याम्’ (2-4-40) इति
घसॢ विकल्पेन । ‘वस्वेकाज्—’
(7-2-67) इति इट् ।
Footnote 10. ‘सृघस्यदः क्मरच्’ (3-2-160)
इति तच्छीलादिषु कर्तृषु क्मरच्
प्रत्ययः ।
Footnote E. ‘जिघत्सोः नूनमापादि ध्वंसोऽयं तां निशाचरात्’ भ-का 6-31.
Footnote 11. ‘घञपोश्च’ (2-4-38) इति घसॢ ।
Footnote 12. ‘नौ ण च’ (3-3-60) इति वा अप् ।
Footnote F. ‘व्याप्नुवन्तो दिशोऽन्यादान् कुर्वन्तस्सव्यधान् हरीन्’ भ. का. 7-56.
अविद्यमानः न्यादः = आहारः येषां तान् इत्यर्थः ।
Footnote G. ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः’ भ. का. 7-56.
Footnote 13. ‘उपसर्गेऽदः’ (3-3-59) इत्यप् ।
Footnote 14. ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’
(3-3-10) इति तुमुण्ण्वुलौ ।
Footnote 1. औणादिकः त्रिन् प्रत्ययः (द. उ.
1. 37.) । ॠषिः ।
Footnote 2. औणादिकः (द. उ. 1-34.) क्रिन्
प्रत्ययः । [ID=21]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

क्षुणत्ति

A

क्षुद् क्षुदिँर् सम्पेषणे रुधादिः उभयपदी सकर्मकः अनिट् to crush to grind to powder

क्षुदिर् [Printed book page 0328]
(314) “क्षुदिर् सम्पेषणे” (VII-रुघादिः-1443. सक. अनि. उभ.)
क्षोदकः-दिका, क्षोदकः-दिका, 1 चुक्षुत्सकः-त्सिका, चोक्षुदकः-दिका;
क्षोत्ता-त्री, क्षोदयिता-त्री, चुक्षुत्सिता-त्री, चोक्षुदिता-त्री; 2 क्षुन्दन्-ती, क्षोदयन्-न्ती, चुक्षुत्सन्-न्ती; –
क्षोत्स्यन्-न्ती-ती, क्षोदयिष्यन्-न्ती-ती, चुक्षुत्सिष्यन्-न्ती-ती; –
क्षुन्दानः, क्षोदयमानः, चुक्षुत्समानः, चोक्षुद्यमानः;
क्षोत्स्यमानः, क्षोदयिष्यमाणः, चुक्षुत्सिष्यमाणः, चोक्षुदिष्यमाणः; 3 क्षुत्-क्षुद्-क्षुदौ-क्षुदः; — — – 4 क्षुण्णः-क्षुण्णम् A -क्षुण्णवान्; क्षोदितः, चुक्षुत्सितः, चोक्षुदितः-तवान्; 5 क्षुदः, 6 प्रक्षोदी, क्षोदः, चुक्षुत्सुः, चोक्षुदः;
क्षोत्तव्यम्, क्षोदयितव्यम्, चुक्षुत्सितव्यम्, चोक्षुदितव्यम्;
क्षोदनीयम्, क्षोदनीयम्, चुक्षुत्सनीयम्, चोक्षुदनीयम्;
क्षोद्यम्, क्षोद्यम्, चुक्षुत्स्यम्, चोक्षुद्यम्;
ईषत्क्षोदः-दुःक्षोदः-सुक्षोदः; — –
क्षुद्यमानः, क्षोद्यमानः, चुक्षुत्स्यमानः, चोक्षुद्यमानः;
क्षोदः, क्षोदः; चुक्षुत्सः, चोक्षुदः;
क्षोत्तुम्, क्षोदयितुम्, चुक्षुत्सितुम्, चोक्षुदितुम्;
क्षुत्तिः, क्षोदना, चुक्षुत्सा, चोक्षुदा;
क्षोदनम्, क्षोदनम्, चुक्षुत्सनम्, चोक्षुदनम्;
क्षुत्त्वा, क्षोदयित्वा, चुक्षुत्सित्वा, चोक्षुदित्वा;
[Page0329+ 26]

प्रक्षुद्य, प्रक्षोद्य, प्रचुक्षुत्स्य, प्रचोक्षुद्य;
क्षोदम् 2, क्षुत्त्वा 2, क्षोदम् 2, क्षोदयित्वा 2, चुक्षुत्सम् 2, चुक्षुत्सित्वा 2, चोक्षुदम् 2; चोक्षुदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । चर्त्वम् ।
Footnote 2. ‘रुधादिभ्यः श्नम्, (3-1-78) इति श्नम्, श्नमो मित्त्वात् अन्त्यादचः परो भवति ।
‘श्नसोरल्लोपः’ (6-4-111) इत्यकारलोपः ।
Footnote 3. ‘वाऽवसाने’ (8-4-56) इति चर्त्वविकल्पः ।
Footnote 4. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठातकारस्य, धातुदकारस्य
च नत्वम् । णत्वम्, ष्टुत्वं च ।
Footnote A. ‘तैर्वृक्णरुग्णसंभुग्नक्षुण्णभिन्नविपन्नकैः ।
निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी ॥’ भ. का. 4-42.
Footnote 5. ‘इगुपध—’ (3-1-135) इति कर्तरि कः ।
Footnote 6. ‘सुप्यजातौ—’ (3-2-78) इति ताच्छील्ये गम्यमाने णिनिः । [ID=314]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

खिन्ते

A

खिद् खिदँ दैन्ये रुधादिः आत्मनेपदी अकर्मकः अनिट् to be sad to be distressed to have sorrow

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

खिद्यते

A

खिद् खिदँ दैन्ये दिवादिः आत्मनेपदी अकर्मकः अनिट् to be sad to be displeased to be distressed

खिद [Printed book page 0353]
(349) “खिद दैन्ये” (IV-दिवादिः-1170. अक. अनि. आत्म.)
‘दैन्येऽर्थे खिद्यते खिन्ते, परिघाते[तापे] तु खिन्दति ।’ (श्लो. 112) इति देवः ।
खेदकः-दिका, खेदकः-दिका, 1 चिखित्सकः-त्सिका, 2 चेखिदकः-दिका;
खेत्ता-त्त्री, खेदयिता-त्री, चिखित्सिता-त्री, चेखिदिता-त्री;
खेदयन्-न्ती, खेदयिष्यन्-न्ती-ती; — – 3 खिद्यमानः, खेदयमानः, चिखित्समानः, चेखिद्यमानः;
खेत्स्यमानः, खेदयिष्यमाणः, चिखित्सिष्यमाणः, चेखिदिष्यमाणः;
खित्-खिद्-खिदौ-खिदः; — – 4 खिन्नम्-खिन्नः-खिन्नवान्, खेदितः, चिखित्सितः, चेखिदितः-तवान्; 5 खिदः, खेदनः 6, खेदः, चिखित्सुः, चेखिदः;
खेत्तव्यम्, खेदयितव्यम्, चिखित्सितव्यम्, चेखिदितव्यम्;
खेदनीयम्, खेदनीयम्, चिखित्सनीयम्, चेखिदनीयम्;
खेद्यम्, खेद्यम्, चिखित्स्यम्, चेखिद्यम्;
ईषत्खेदः-दुष्खेदः-सुखेदः; — –
[Page0354+ 24]

खिद्यमानः, खेद्यमानः, चिखित्स्यमानः, चेखिद्यमानः; A खेदः, खेदः, चिखित्सः, चेखिदः;
खेत्तुम्, खेदयितुम्, चिखित्सितुम्, चेखिदितुम्; 1 खिदा, खेदना, चिखित्सा, चेखिदा;
खेदनम्, खेदनम्, चिखित्सनम्, चेखिदनम्;
खित्त्वा, खेदयित्वा, चिखित्सित्वा, चेखिदित्वा;
सङ्खिद्य, सङ्खेद्य, प्रचिखित्स्य, प्रचेखिद्य;
खेदम् 2, खित्त्वा 2, खेदम् 2, खेदयित्वा 2, चिखित्सम् 2, चिखित्सित्वा 2, चेखिदम् 2; चेखिदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । तेनाङ्गस्य गुणो न ।
Footnote 2. ‘गुणो यङ्लुकोः’ (7-4-82) इत्यभ्यासस्य गुणः ।
Footnote 3. ‘दिवादिभ्यः श्यन्’ (3-1-69) इति श्यन्विकरणप्रत्ययः ।
Footnote 4. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति धातुदकारनिष्ठातकारयोः
मत्वम् ।
Footnote 5. ‘इगुषधज्ञाप्रीकिरः कः’ (3-1-135) इति कर्तरि कः प्रत्ययः ।
Footnote 6. ‘अनुदात्तेतश्च हलादेः’ (3-2-149) इति ताच्छीलिको युच् ।
Footnote A. ‘तन्मृष्यमाणास्त्वथ शुच्यदङ्गकाः भृत्याः सुनद्धं बहुरक्तमंशुकम् ।
विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान् ॥’ धा. का. 2-61.
Footnote 1. भिदादिपाठात् (3-3-104) खिदा इत्यत्राङ् । [ID=349]
[Printed book page 0354]
(350) “खिद परिघाते” (VI-तुदादिः-1436. सक. अनि. पर.)
‘परितापे’ इति क्षीरस्वामी । मुचादिः ।
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे (घाते) तु खिन्दति ।’ (श्लो-112) इति देवः । 2 खिन्दन्-न्ती-ती, B खेत्स्यन्-न्ती-ती, C परिखेदितम्, इत्यादीनि रूपाण्यस्य
घातोः विशेषः । अन्यानि सर्वाण्यपि रूपाणि दैवादिकदैन्यार्थक (349)
खिद्यतिवत् ज्ञेयानि ।
Footnote 2. ‘तुदादिभ्यः शः’ (3-1-77) इति शः विकरणप्रत्ययः । ‘शे मुचादीनाम्’
(7-1-59) इति नुम् । ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुमो वैकल्पिकत्वम् ।
Footnote B. ‘मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चन् भियं
गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन् ।
भुक्त्वा गोरससिक्तमन्नमजितः कंसस्य कृन्तन् मुदं
तं खेत्स्यन् पिशिताशदारुणमसौ मोदेन निन्ये निशाम् ॥’ धा. का. 2-85.
Footnote C. ‘परिखेदितविन्ध्यवीरुधः परिपीतामलनिर्झराम्भसः ।
दुधुवुर्मधुकाननं ततः कपिनागा मुदिताङ्गदाज्ञया ॥’ भ. का. 10. 28. [ID=350]
(351) “खिद दैन्ये” (VII-रुधादिः-1449. अक. अनि. आत्म.)
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे (घाते) तु खिन्दति ।’ (श्लो. 112) इति देवः ।
[Page0355+ 28]
1 खिन्दानः, आ खेत्स्यमानः, खेदः B;
इति रूपाणीति विशेषः । अन्यानि सर्वाणि रूपाणि दैन्यार्थकदैवादिक-
खिद्यतिवत् (349) ज्ञेयानि ।
Footnote 1. शानचि, ‘रुधादिभ्यः श्नम्’ (3-1-78) इति श्नम् । ‘श्नसोरल्लोपः’ (6-4-111)
इति लोपः ।
Footnote आ.‘यमं युनज्मि कालेन समिन्धानोऽस्त्रकौशलम् ।
शुष्कपेषं पिनष्म्युर्वीम् अखिन्दानः स्वतेजसा ॥’ भ. का. 6. 37.
Footnote B. ‘सञ्छृण्णगात्रमथ शात्रवतर्दिनस्ते चाणूरमुष्टिकमुखा वसनान्यकृन्तन् ।
इन्धानखेदमुदविन्त विशिष्टलोकः पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु ॥’ धा. का. 3. 2. [ID=351]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

छिनत्ति

A

छिद् छिदिँर् द्वैधीकरणे रुधादिः उभयपदी सकर्मकः अनिट् to cut to grind to truncate to incise

छिदिर् [Printed book page 0540]
(567) “छिदिर् द्वैधीकरणे” (VII-रुधादिः-1440. सक. अनि. उभ.) 1 छेदकः-दिका, छेदकः-दिका, 2 चिच्छित्सकः-त्सिका, 3 चेच्छिदकः-दिका;
छेत्ता-त्री, छेदयिता-त्री, चिच्छित्सिता-त्री, चेच्छिदिता-त्री; 4 छिन्दन्-ती, छेदयन्-न्ती, चिच्छित्सन्-न्ती; – 5 छेत्स्यन्-न्ती-ती, छेदयिष्यन्-न्ती-ती, चिच्छित्सिष्यन्-न्ती-ती; –
छिन्दानः, छेदयमानः, चिच्छित्समानः, चेच्छिद्यमानः;
छेत्स्यमानः, चेदयिष्यमाणः, चिच्छित्सिष्यमाणः, चेच्चिदिष्यमाणः; 6 रज्जुच्छित्-रज्जुच्छिदौ-रज्जुच्छिदः, A शोकच्छित्; – 7 छिन्नम् B -छिन्नः-छिन्नवान्, छेदितः, चिच्छित्सितः, चेच्छिदितः-तवान्; 8 छिदः, 9 छिदुरः C, 10 चिच्छिद्वान्, छेदः, चिच्छित्सुः, चेच्छिदः;
[Page0541+ 26]

छेत्तव्यम्, छेदयितव्यम्, चिच्छित्सितव्यम्, चेच्छिदितव्यम्;
छेदनीयम्, छेदनीयम्, चिच्छित्सनीयम्, चेच्छिदनीयम्;
छेद्यम्, 1 छिदेलिमः [जीर्णरज्जुः], छेद्यम्, चिच्छित्स्यम्, चेच्छिद्यम्;
ईषच्छेदः-दुश्छेदः-सुच्छेदः; — — – A छिद्यमानः, छेद्यमानः, चिच्छित्स्यमानः, चेच्छिद्यमानः;
छेदः, छेदः, चिच्छित्सः, चेच्छिदः;
छेत्तुम्, छेदयितुम्, चिच्छित्सितुम्, चेच्छिदितुम्;
विच्छित्तिः- 2 छिदा, छेदना, चिच्छित्सा, चेच्छिदा;
छेदनम्, छेदनम्, चिच्छित्सनम्, चेच्छिदनम्;
छित्त्वा, छेदयित्वा, चिच्छित्सित्वा, चेच्छिदित्वा;
प्रच्छिद्य, प्रच्छेद्य, प्रचिच्छित्स्य, प्रचेच्छिद्य;
छेदम् 2, छित्त्वा 2, छेदम् 2, छेदयित्वा 2, चिच्छित्सम् 2, चिच्छित्सित्वा 2, चेच्छिदम् 2; चेच्छिदित्वा 2; 3 छिदिः, 4 छिदिरम्, 5 छिद्रम्.
Footnote 1. ‘पुगन्तलघूपधस्य च’ (7-3-86) इत्युपधायाः गुणः । एवं णिचि परतोऽपि सर्वत्र
ज्ञेयम् । तव्यदादिष्वपि गुणो यथासम्भवमेवमूह्यः ।
Footnote 2. धातोरनुदात्तत्वात्, ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इत्यनेनेण्णिषेधः ।
अभ्यासस्य तुगागमः । उत्तरखण्डे दकारस्य चर्त्वम् । ‘हलन्ताच्च’ (1-2-10)
इति सनः कित्त्वान्न लघूपधगुणः । एवं सर्वत्र सनि बोध्यम् ।
Footnote 3. ‘दीर्घात्’ (6-1-75) इति अभ्यासस्य तुगागमः । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 4. ‘रुधादिभ्यः—’ (3-1-78) इति श्नम् विकरणप्रत्ययः । ‘श्नसोरल्लोपः’ (6-4-111)
इत्यकारलोपः । एवं छिन्दानः इत्यत्रापि प्रक्रिया ज्ञेया ।
Footnote 5. इडभावः, लघूपधगुणश्च । ‘खरि च’ (8-4-55) इति दकारस्य चर्त्वेन तकारः ।
Footnote 6. ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (3-2-61) इति
कर्मण्युपपदे क्विप् ।
Footnote A. ‘एष शोकच्छिदो वीरान् प्रभो सम्प्रति वानरान् ।’ भ. का. 7-27.
Footnote 7. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठानत्वम् ।
Footnote B. ‘रुन्धन् दिशो दिनमुखेऽथ जगन्ति भिन्दन्
प्रच्छिन्नसंशयमतिर्मुदमाशु रिञ्चन् ।’ धा. का. 3-1.
Footnote 8. ‘इगुपधज्ञा—’ (3-1-135) इति कर्तरि कः ।
Footnote 9. ‘विदिभिदिछिदेः कुरच्’ (3-2-162) इति ताच्छीलिकः कुरच् प्रत्ययः ।
प्रत्ययस्य कित्त्वान्न गुणः ।
Footnote C. ‘पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न छिदुरोऽपि हारः ॥’ रघुवंशे– 16. 62.
Footnote 10. लिटः क्वसुः । द्विर्वचनम् । क्वसोः क्रादिनियमप्राप्त इडागमः, ‘वस्वेकाजाद्घ-
साम्’ (7-2-67) इति नियमान्न भवति ।
Footnote 1. ‘केलिमर उपसंख्यानम्’ (वा. 3-1-96) इति केलिमर्प्रत्ययः । प्रत्ययस्य
कित्त्वान्न गुणः ।
Footnote A. ‘विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या ॥’ भ. का. 3-52.
Footnote 2. ‘छिदा द्वैधीभावे’ (गणसूत्रम् 3-3-104) इति वचनात् अङ् । अन्यत्र विच्छित्तिः
इति क्तिन्नपि भवति ।
Footnote 3. ‘इगुपधात् कित्’ [द. उ. 1-48] इति इन् प्रत्ययः, किद्वद्भावश्च । छिनत्तीति
छिदिः = परशुः ।
Footnote 4. ‘इषिमदिमुदिखिदिछिदि—’ [द. उ. 8-26] इति किरच्प्रत्ययः ।
छिदिरम् = शस्त्रम् ।
Footnote 5. औणादिके [द. उ. 8-31] रक्प्रत्यये रूपम् । छिद्यते तदिति छिद्रम् = विवरम् । [ID=567]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

तुदति

A

तुद् तुदँ व्यथने तुदादिः उभयपदी सकर्मकः अनिट् to wound to strike to pain to irritate to hut to cause pain to attack

तुद [Printed book page 0667]
(741) “तुद व्यथने” (VI-तुदादिः-1281. सक. अनि. उभ.)
तोदकः-दिका, तोदकः-दिका, 1 तुतुत्सकः-त्सिका, तोतुदकः-दिका;
तोत्ता-त्री, तोदयिता-त्री, तुतुत्सिता-त्री, तोतुदिता-त्री; A तुदन्-न्ती-ती, तोदयन्-न्ती, तुतुत्सन्-न्ती; –
तोत्स्यन्-न्ती-ती, तोदयिष्यन्-न्ती-ती, तुतुत्सिष्यन्-न्ती-ती; –
तुदमानः, तोदयमानः, तुतुत्समानः, तोतुद्यमानः;
तोत्स्यमानः, तोदयिष्यमाणः, तुतुत्सिष्यमाणः, तोतुदिष्यमाणः;
तुत्-तुद्-तुदौ-तुदः; — — – 2 तुन्नम्-तुन्नः-तुन्नवान्, तोदितः, तुतुत्सितः, तोतुदितः-तवान्;
तुदः, 3 विधुन्तुदः B - C अरुन्तुदः- 4 तिलन्तुदः, तोदः, तुतुत्सुः, तोतुदः;
तोत्तव्यम्, तोदयितव्यम्, तुतुत्सितव्यम्, तोतुदितव्यम्;
तोदनीयम्, तोदनीयम्, तुतुत्सनीयम्, तोतुदनीयम्;
[Page0668+ 26]

तोद्यम्, तोद्यम्, तुतुत्स्यम्, तोतुद्यम्;
ईषत्तोदः-दुस्तोदः-सुतोदः; — –
तुद्यमानः, तोद्यमानः, तुतुत्स्यमानः, तोतुद्यमानः; 1 प्रतोदः, तोदः, तुतुत्सः, तोतुदः;
तोत्तुम्, तोदयितुम्, तुतुत्सितुम्, तोतुदितुम्;
तुत्तिः, तोदना, तुतुत्सा, तोतुदा; 2 तोत्त्त्रम्-तोत्त्त्री, तोदनम्, तोदनम्, तुतुत्सनम्, तोतुदनम्;
तुत्त्वा, तोदयित्वा, तुतुत्सित्वा, तोतुदित्वा;
प्रतुद्य, प्रतोद्य, प्रतुतुत्स्य, प्रतोतुद्य;
तोदम् 2, तुत्त्वा 2, तोदम् 2, तोदयित्वा 2, तुतुत्सम् 2, तुतुत्सित्वा 2, तुतुत्सित्वा 2, तोतुदम् 2; तोतुदित्वा 2.
Footnote 1. ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वम् । तेनाङ्गस्य गुणो न । एवं सन्नन्ते
सर्वत्र ज्ञेयम् ।
Footnote A. ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन्
प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः ।’ धा. का. 2. 72.
Footnote 2. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठानत्वम् ।
Footnote 3. ‘विध्वरुषोस्तुदः’ (3-2-35) इति खशूप्रत्ययः । ‘अरुर्द्विषदजन्तस्य मुम्’
(6-3-67) इति मुम् । विधुन्तुदः = राहुः । ‘संयोगान्तस्य लोपः’ (8-2-23)
इति अरुषः सकारस्य लोपः । अरुः = मर्म तुदति = व्यथतीति अरुन्तुदः =
मर्मावित् ।
Footnote B. ‘अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुन्तुदया च तया बहु ।’ नैषधे. 4. 43.
Footnote C. ‘अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥’ रघुवंशे 1. 71.
Footnote 4. ‘वातशुनीतिलशर्धेषु अजधेट्तुदजहातीनामुपसंख्यानम्’ (वा. 3-2-28) इति
खशू । ‘अरुर्द्विषदजन्तस्य—’ (6-3-67) इति मुमागमः । तिलन्तुदः =
वणिजां तैलनिष्पादकं दारु ।
Footnote 1. प्रतुद्यतेऽनयेति करणे ‘हलश्च’ (3-3-121) इति संज्ञायां घञ् ।
Footnote 2. ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (3-2-182) इति करणे
ष्ट्रन् प्रत्ययो भवति । षित्त्वात् स्त्रियां ङीष् । [ID=741]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

नुदति

A

नुद् णुदँ प्रेरणे तुदादिः उभयपदी सकर्मकः अनिट् to inspire

णुद [Printed book page 0633]
(684) “णुद प्रेरणे” (VI-तुदादिः-1282. सक. अनि. उभ.)
नोदकः-दिका, नोदकः-दिका, 4 नुनुत्सकः-त्सिका, नोनुदकः-दिका; 5 नोत्ता-त्री, नोदयिता-त्री, नुनुत्सिता-त्री, नोनुदिता-त्री;
[Page0634+ 27]
1 नुदन् ती-न्ती, नोदयन्-न्ती, नुनुत्सन्-न्ती; –
नोत्स्यन्-न्ती-ती, नोदयिष्यन्-न्ती-ती, नुनुत्सिष्यन्-न्ती-ती; –
नुदमानः, A प्रणुदमानः, नोदयमानः, नुनुत्समानः, नोनुद्यमानः;
नोत्स्यमानः, नोदयिष्यमाणः, नुनुत्सिष्यमाणः, नोनुदिष्यमाणः;
अपनुत्-अपनुद्-अपनुदौ-अपनुदः; — – 2 नुन्नः-नुत्तः- B प्रणुन्नम्-नुत्तम्-नुन्नम्-नुन्नवान्-नुत्तवान्, नोदितः, नुनुत्सितः, नोनुदितः-तवान्; 3 नुदः, 4 शोकापनुदः, C 5 शोकापनोदः, विनोदी, नोदः, D नुनुत्सुः, नोनुदः;
नोत्तव्यम्, नोदयितव्यम्, नुनुत्सितव्यम्, नोनुदितव्यम्;
नोदनीयम्, नोदनीयम्, नुनुत्सनीयम्, नोनुदनीयम्;
नोद्यम्, नोद्यम्, नुनुत्स्यम्, नोनुद्यम्;
ईषन्नोदः-दुर्नोदः-सुनोदः; — –
नुद्यमानः, नोद्यमानः, नुनुत्स्यमानः, नोनुद्यमानः;
नोदः-विनोदः, 6 काकुदः [तालु], नुनुत्सः, नोनुदः;
[Page0635+ 28]

नोत्तुम्, नोदयितुम्, नुनुत्सितुम्, नोनुदितुम्;
नुत्तिः, नोदना, नुनुत्सा, नोनुदा;
नोदनम्, नोदनम्, नुनुत्सनम्, नोनुदनम्;
नुत्त्वा, नोदयित्वा, नुनुत्सित्वा, नोनुदित्वा;
प्रणुद्य, प्रणोद्य, प्रणुनुत्स्य, प्रणोनुद्य;
नोदम् 2, नुत्त्वा 2, नोदम् 2, नोदयित्वा 2, नुनुत्सम् 2, नुनुत्सित्वा 2, नोनुदम् 2; नोनुदित्वा 2; 1 नौः.
Footnote 4. धातोरनुदात्तत्वेनेडभावे, ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वे, लघूपधगुणो न ।
एवं सन्नन्ते सर्वत्र ज्ञेयम् ।
Footnote 5. ‘एकाच उपदेशेऽनुदात्तात्’ (7-2-10) इति इण्णिषेधे, ‘पुगन्तलघूपधस्य च’
(7-3-86) इति गुणः । एवं तव्यदादिष्वपि ज्ञेयम् ।
Footnote 1. ‘तुदादिभ्यः—’ (3-1-77) शः विकरणप्रत्ययः । शस्य ङिद्वद्भावादङ्गस्य गुणो
न । स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम् वा ।
Footnote A. ‘तुदन् कुचरितान् शुमे प्रणुदमान इष्टं दिशन्
प्रमृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः ।’ धा. का. 2. 72.
Footnote 2. ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (8-2-56) इत्यनेन निष्ठातकारस्य धातुदकारस्य
च नत्वविकल्पः तेन रूपद्वयम् ।
Footnote B. ‘दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥’ शि. व. 9. 71.
Footnote 3. ‘इगुपध—’ (3-1-135) इति कर्तरि कप्रत्ययः ।
Footnote 4. ‘तुन्दशोकयोः परिमृजापनुदोः’ (3-2-5) इत्यत्र ‘आलस्य सुखाहरणयोरिति
वक्तव्यम्’ (वा. 3-2-5) इति वचनात् शोकनिवृत्तिपूर्वकं सुखसम्पादके पुत्रादौ
शोकापनुद इति कप्रत्ययो भवति । कर्मण्यणोऽपवादः ।
Footnote C. ‘पौरा निवर्तध्वमिति न्यगादीत् तातस्य शोकापनुदा भवेत ।’ भ. का. 3. 15.
Footnote 5. केवलं शोकमात्रं यः अपनुदति, न तु सुखस्याहर्ता, तत्र ‘कर्मण्यण्’ (3-2-1)
इत्यणेव ।
Footnote D. ‘यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् ।’ नैषधे– 2. 11.
Footnote 6. काकुः = जिह्वा । सा अस्मिन् नुद्यते इति काकुदम् = तालु । घञर्थे कविधानम् ।
पृषोदरादित्वात्— (6-3-109) नुशब्दस्य{??} लोपः ।
Footnote 1. ‘ग्लानुदिभ्यां डौः’ [द. उ. 2-12] इति डौप्रत्ययः । टिलोपः । नुदति, नुद्यते
घा नौः = प्लवः । [ID=684]
[Printed book page 0635]
(685) “णुद प्रेरणे” (VI-तुदादिः-1426. सक. अनि. पर.)
नोदकः-दिका, नोदकः-दिका, नुनुत्सकः-त्सिका, नोनुदकः-दिका;
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखिततौदादिकनुदतिवत् (684) ज्ञेयानि ।
अस्य घातोः परस्मैपदिषु पाठात् शानच्प्रत्ययो न भवति । तुदादावेव पुनः
पाठफलं तु—कर्तृगामिन्यपि क्रियाफले परस्मैपदित्वमिति बोध्यम् । [ID=685]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

पद्यते

A

पद् पदँ गतौ दिवादिः आत्मनेपदी सकर्मकः अनिट् to go to attain

पद [Printed book page 0845]
(972) “पद गतौ” (IV-दिवादिः-1169. सक. अनि. आत्म.)
‘पदॢ—’ इति पुरुषकारसम्मतः पाठः ।
‘—श्यनि गत्यर्थे पद्यते पदयेत णौ ॥’ (श्लो. 109) इति देवः ।
पादकः-दिका, पादकः-दिका, 1 पित्सकः-त्सिका, 2 पनीपदकः-दिका;
पत्ता-पत्त्री, पादयिता-त्री, पित्सिता-त्री, पनीपदिता-त्री;
— पादयन्-न्ती, पादयिष्यन्-न्ती-ती; — – 3 प्रणिपद्यमानः, पादयमानः, पित्समानः, पनीपद्यमानः;
पत्स्यमानः, पादयिष्यमाणः, पित्सिष्यमाणः, पनीपदिष्यमाणः; 4 पत्-पद्-पदौ-पदः; — — – 5 प्रपन्नः-पन्नवान्, पादितः, पित्सितः, पनीपदितः-तवान्;
पदः, 6 उत्पदिष्णुः, 7 पदनः, 8 पादुकः- A पादुका, 9 पादः, 10 सम्पद्यः,
[Page0846+ 29]

सम्पादी, 1 प्रणिपेदिवान्, A पादः, पित्सुः, पनीपदः;
पत्तव्यम्, पादयितव्यम्, पित्सितव्यम्, पनीपदितव्यम्;
पदनीयम्, पादनीयम्, पित्सनीयम्, पनीपदनीयम्;
पाद्यम्, पाद्यम्, पित्स्यम्, पनीपद्यम्;
ईषत्पदः-दुष्पदः-सुपदः; — — –
पद्यमानः, पाद्यमानः, पित्स्यमानः, पनीपद्यमानः;
पादः, 2 पदम्, 3 आस्पदम्, B 4 गोष्पदम्, पादः, पित्सः, पनीपदः;
पत्तुम्, पादयितुम्, पित्सितुम्, पनीपदितुम्; 5 सम्पत्-सम्पत्तिः, विपत्-प्रतिपत्-आपत्, 6 पद्या, पादना, पित्सा, पनीपदा;
पदनम्, आपादनम्, पित्सनम्, पनीपदनम्;
पत्त्वा, पादयित्वा, पित्सित्वा, पनीपदित्वा;
प्रणिपद्य, सम्पाद्य, प्रपित्स्य, प्रपनीपद्य;
[Page0847+ 25]
1 गेहानुप्रपादम्, गेहंगेहमनुप्रपादम्, गेहमनुप्रपादमनुप्रपादमास्ते;
पादम् 2, पत्त्वा 2, पादम् 2, पादयित्वा 2, पित्सम् 2, पित्सित्वा 2, पनीपदम् 2; पनीपदित्वा 2; 2 पादूः, 3 पद्मम्-पद्मिनी ।
Footnote 1. ‘सनि मीमाघुरभलभशकपतपदामच इस्’ (7-4-54) इति सन्नन्ते सर्वत्र इस् ।
‘अत्र लोपोऽभ्यासस्य’ (7-4-58) इत्यभ्यासलोपः । ‘स्कोः संयोगाद्योरन्ते च’
(8-2-29) इति सकारलोपः । ‘इको झल्’ (1-2-9) इति सनः कित्त्वम् ।
‘खरि च’ (8-4-55) इति दकारस्य चर्त्वं भवति ।
Footnote 2. यङन्ताण्ण्वुलि, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (7-4-84) इत्यभ्यासस्य
नीगागमः । अभ्यासदीर्घापवादः । एवं यङन्ते सर्वत्र ज्ञेयम् ।
Footnote 3. ‘नेर्गदनदपतपद—’ (8-4-17) इत्यादिना नेर्णत्वम् ।
Footnote 4. पद्यतेऽनेनेति पत् = पादः । क्विबन्ते चर्त्वविकल्पः ।
Footnote 5. ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठातकारधातुदकारयोर्नत्वे रूपम् ।
Footnote 6. ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पद—’ (3-2-136) इत्यादिना इष्णुच् प्रत्ययः
तच्छीलादिषु कर्तृषु भवति—इति माधवः । एतच्च प्रकृतसूत्रे (3-2-136),
उत्पद इति पाठाश्रयणेन साध्यते । परं तु—पतॢधातौ (968) स्वयमेव
माधवेन उत्पत इत्येतस्मादेव इष्णुच् साधितः । पदधातौ तु “केचित्तु
‘उत्पत’ इति पततिं पठन्ति” इति वदतः को वाऽत्र स्वाभिमतः पाठ इति न
ज्ञायते ।
Footnote 7. ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः’ (3-2-150) इत्यादिना ताच्छी-
लिको युच्प्रत्ययः ।
Footnote 8. ‘लषपतपद—’ (3-2-154) इत्यादिना तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः ।
अदन्तत्वात् स्त्रियां टाप् ।
Footnote A. ‘प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम् ।’ शि. व. 20-39.
Footnote 9. ‘पदरुजविशस्पृशो घञ्’ (3-3-16) इति कर्तरि घञ् ।
Footnote 10. सम्पूर्वकादस्मात् कर्तरि शप्रत्यये, दिवादित्वात् श्यनि, पररूपे, रूपमेवम् ।
शप्रत्ययसद्भावे निदानं तु ‘कृभ्वस्तियोगे सम्पद्यकर्तरि—’ (5-4-50) इति सूत्रे
सम्पद्य इति निर्देश एव ।
Footnote 1. ‘पपुष आगतं पपिवद्रूप्यम्’ इति भाष्य (4-3-24) प्रयोगात्, छान्दसोऽपि
क्वसुः क्वचिद् भाषायां भवति इति ज्ञायते । तेन क्वसौ, एत्वाभ्यासलोपयोः,
‘वस्वेकाजाद्धसाम्’ (7-2-67) इति इडागमे च रूपमेवम् ।
Footnote A. ‘प्रायेण प्रणिपेदुषां निजमसौ योगं स्वयं शिक्षयन् ।’ कामासिकाष्टके 5.
Footnote 2. ‘खनो घ च’ (3-3-125) इत्यत्र चकारात् संज्ञायामन्यत्रापि घप्रत्ययो भवति
इति ज्ञायते-इत्याश्रयणेन घप्रत्यये रूपम् ।
Footnote 3. आङ्पूर्वकादस्मात् संज्ञायां घप्रत्यये, ‘आस्पदं प्रतिष्ठायाम्’ (6-1-146)
इत्यत्र निपातनात् सुडागमः ।
Footnote B. ‘कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।’ शि. व. 3-34.
Footnote 4. ‘गोष्पदं सेवितासेवितप्रमाणेषु’ (6-1-145) इत्यनेन सेविते असेविते प्रमाणे च
विषये सुट् निपात्यते । षत्वं च भवति ।
Footnote 5. ‘सम्पदादिभ्यः—’ (वा. 3-3-94) इत्यनेन स्त्रियां भावादौ क्विप् । ‘क्तिन्न-
पीष्यते’ (भाष्येष्टिः 3-3-94) इति वचनात् क्तिनि सम्पत्तिः इत्यादिकमपि
साध्वेव । प्रतिपत् = ज्ञानम्, प्रथमा तिथिश्च ।
Footnote 6. ‘संज्ञायां समजनिषदनिपत—’ (3-3-99) इत्यत्र ‘निपद’ इति क्षीर-
स्वामिपाठमाश्रित्यात्र क्यप् बोध्यः । पद्या = काव्यविशेषः । ‘एकप्रघट्टकं
पद्या मुक्तकानां निबन्धनम् ।’ इति तल्लक्षणम् । अत्र पक्षे ‘उपेयिवान्—’
(3-2-109) इत्यत्र ‘उप’ इत्यस्येव अत्र ‘नि’ इत्यस्याविवक्षितत्वं ज्ञेयम् ।
Footnote 1. ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (3-4-56) इति सोपपदात्
णमुल् । ‘तृतीयाप्रभृतीनि—’ (2-2-21) इति समासविकल्पः । समासे, ‘नित्य-
वीप्सयोः’ (8-1-4) इति द्विर्वचनं न भवति । समासेनैव नित्यवीप्सार्थयोरुक्तत्वात् ।
Footnote 2. ‘णिच्च कसि पद्यर्त्तेः’ [द. उ. 1-168] इत्यूप्रत्ययः, प्रत्ययस्य णित्त्वं च । पद्यते
इति पादूः = पादुका । ‘पादुका’ इत्यत्र संज्ञायां कनि, ‘केऽणः’ (7-4-13)
इति ह्रस्वो ज्ञेयः ।
Footnote 3. औणादिके [द. उ. 7-26] मन्प्रत्यये रूपम् । पद्यते मधुकरैरिति पद्मम् =
कमलम् । अर्शआद्यजन्ते मत्वर्थीये पद्मा = लक्ष्मीः । मत्वर्थीय एव इनिप्रत्यये
पद्मिनी इति च । [ID=972]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

भिनत्ति

A

भिद् भिदिँर् विदारणे रुधादिः उभयपदी सकर्मकः अनिट् to cut to break to divide

भिदिर् [Printed book page 0952]
(1160) “भिदिर् विदारणे” (VII-रुधादिः-1439. सक. अनि. उभ.)
भेदकह्-दिका, भेदकः-दिका, 1 बिभित्सकः-त्सिका, 2 बेभिदकः-दिका;
भेत्ता-भेत्री, भेदयिता-त्री, बिभित्सिता-त्री, बेभिदिता- B त्री; 3 भिन्दन्- C ती, भेदयन्-न्ती, बिभित्सन्-न्ती; –
भेत्स्यन्-न्ती, भेदयिष्यन्-न्ती-ती, बिभित्सिष्यन्-न्ती-ती; –
भिन्दानः, भेदयमानः, बिभित्समानः, बेभिद्यमानः;
भेत्स्यमानः, भेदयिष्यमाणः, बिभित्सिष्यमाणः, बेभिदिष्यमाणः; 4 गोत्रभिद्, काष्ठभिद्, उद्भित्, प्रभित्-प्रभिदौ-प्रभिदः; 5 भित्तम् [शकलम्], भित्तः, 6 भिन्नम्-भिन्नवान्, भेदितम्-तः, बिभित्सितः, बेभिदितः-तवान्;
[Page0953+ 28]
1 उद्भिदः, 2 भिदेलिमाः, 3 भिदुरम्, A 4 भिद्यः B [नदः], 5 कर्णभेदी, C 6 काष्ठभेदः, 7 बिभिद्वान्, 8 भेदनः-भेदः, बिभित्सुः, बेभिदः;
भेत्तव्यम्, भेदयितव्यम्, बिभित्सितव्यम्, बेभिदितव्यम्;
भेदनीयम्, भेदनीयम्, बिभित्सनीयम्, बेभिदनीयम्;
भेद्यम्, भेद्यम्, बिभित्स्यम्, बेभिद्यम्;
भिद्यमानः, भेद्यमानः, बिभित्स्यमानः, बेभिद्यमानः;
ईषद्भेदः-दुर्भेदः-सुभेदः; — –
भेदः, उद्भेदः, भेदः, बिभित्सः, बेभिदः;
भेत्तुम्, भेदयितुम्, बिभित्सितुम्, बेभिदितुम्;
[Page0954+ 27]
1 भिदा, भित्तिः-भिदिः, भेदना, बिभित्सा, बेभिदा;
भेदनम्, भेदनम्, बिभित्सनम्, बेभिदनम्;
भित्त्वा, भेदयित्वा, बिभित्सित्वा, बेभिदित्वा;
संभिद्य, संभेद्य, प्रबिभित्स्य, प्रबेभिद्य, 2 प्रबेभिदय्य गतः;
भेदम् 2, भित्त्वा 2, भेदम् 2, भेदयित्वा 2, बिभित्सम् 2, बिभित्सित्वा 2, बेभिदम् 2; बेभिदित्वा 2; 3 भिदुः, 4 भिदिरम्, 5 भिद्रः ।
Footnote 1. सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (1-2-10) इति सनः कित्त्वे, द्विर्वचनादिषु कृतेषु
धातुदकारस्य चर्त्वेन तकारः । एवमुत्तरत्रापि प्रक्रिया ज्ञेया ।
Footnote 2. यङन्ते द्विर्वचनादिकेषु कृतेषु, ‘गुणो यङ्लुकोः’ (7-4-82) इत्यभ्यासे गुणः
सर्वत्र बोध्यः ।
Footnote B. ‘आत्तायुधाहितजनैः सह संयतित्री शत्रोर्मनोरथशतान्यथ बेभिदित्री ।’ वा. वि. 3. 51.
Footnote 3. शतरि, ‘रुधादिभ्यः—’ (3-1-78) इति श्नम् विकरणप्रत्ययः । स च अन्त्यादचः
परो भवति । ‘श्नसोरल्लोपः’ (6-4-111) इति श्नमोऽकारस्य लोपः । एवमेव
शानजन्तेऽपि प्रक्रिया ज्ञेया ।
Footnote C. ‘निहतश्च स्थितिं भिन्दन् दानवोऽसौ बलद्विषा ।’ भ. का. 7. 68.
Footnote 4. ‘सत्सूद्विषद्रुहयुजविदभिद—’ (3-2-61) इत्यादिना कर्मण्युपपदे, उपसर्गे
उपपदेऽपि क्विप्प्रत्ययः । गोत्रं भिनत्तीति गोत्रभित् = इन्द्रः । उद्भित् =
लतागुल्मादिः ।
Footnote 5. क्तप्रत्यये शकलेऽभिधेये ‘भित्तं शकलम्’ (8-2-59) इत्यनेन निष्ठानत्वाभावो
निपात्यते । भित्तमिति शकलपर्यायो रूढिशब्दः । अत्र भिदिक्रिया शब्दव्युत्पत्ते-
र्निमित्तम् । स्पष्टमिदं प्रकृतसूत्रे भाष्यादिषु ।
Footnote 6. शकलादन्यत्र, ‘रदाभ्यां निष्ठातो नः, पूर्वस्य च दः’ (8-2-42) इत्यनेन निष्ठात-
कार-धातुदकारयोर्नत्वे रूपमेवम् ।
Footnote 1. ‘इगुपध—’ (3-1-135) इत्यादिना कर्तरि कप्रत्ययः । कित्त्वान्न गुणः ।
Footnote 2. ‘केलिमर उपसंख्यानम्’ (वा. 3-1-96) इत्यनेन केलिमर्प्रत्ययः । धातोरस्य
सकर्मकत्वादयं कर्मणि सम्पद्यते । वृत्त्यादिषु तु ‘कर्मकर्तरि चायमिष्यते’
(काशिका. 3-1-96) इत्युक्तम् । ‘भिदेलिमाः सरलाः—भेत्तव्याः ।’ इति भाष्ये
(3-1-96) कर्मार्थकेन तव्यप्रत्ययेन विवरणात् कर्मार्थकत्वमेवास्य प्रत्ययस्येति
बोध्यम् ।
Footnote 3. ‘विदिभिदिच्छिदेः कुरच्’ (3-2-162) इति ताच्छीलिकः कुरच्प्रत्ययः । कर्म-
कर्तरि प्रत्ययोऽयमिति वृत्तौ लक्ष्यते । भेदनकर्तुः वज्रायुधस्य ‘भिदुरम्’ इत्य-
भिधानात् शुद्धकर्तर्येवायं प्रत्यय इति प्रतिभाति ।
Footnote A. ‘अयशो भिदुरालोके कोपधामरणादृते ।’ शि. व. 19. 58.
Footnote 4. भिनत्ति कूलमित्यर्थे नदेऽभिधेये कर्तरि ‘भिद्योद्ध्यौ नदे’ (3-1-115) इति क्यप्
निपात्यते । भिद्यः = नदः; अधुना ‘जम्मू’ राज्ये ‘बई’ इति देशभाषया
व्यवह्रियते ।
Footnote B. ‘तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं बिचेष्टितम् ॥’ रघुवंशे 11. 8.
Footnote 5. कर्ण भिनत्तीति कर्णभेदी = रूक्षध्वनिः, पिशुनश्च । ताच्छील्ये णिनिप्रत्यये रूपमेवम् ।
Footnote C. ‘तेषां निहन्यमानानां संघुष्टैः कर्णभेदिभिः ।’ भ. का. 9. 21.
Footnote 6. कर्मण्युपपदेऽणि रूपमेवम् । ‘कर्मण्यण्’ (3-2-1) इत्यत्र भाष्ये एवं प्रयुक्तम् ।
Footnote 7. लिटः क्वसौ द्विर्वचनादिकेषु कृतेषु रूपमेवम् । ‘वस्वेकाजाद्घसाम्’ (7-2-67)
इत्यत्र कृतद्विर्वचनस्य एकाच एव ग्रहणादत्र नेडिति ज्ञेयम् ।
Footnote 8. नन्द्यादेराकृतिगणत्वात्, ‘कृत्यल्युटो बहुलम्’ (3-3-113) इति बहुलग्रहणाद्वा
कर्तरि ल्युः ल्युट् वा प्रत्ययः । भेदनः = रोगविशेषः, वराहश्च ।
Footnote 1. स्त्रियाम्, ‘भिदा विदारणे’ (ग. सू. 3-3-104) इति भिदादिपाठाद् भावादौ
अङ् । अन्यत्र भित्तिः इत्येव । भित्तिः = कुड्यम् । स्वार्थे कन्प्रत्यये भित्तिका
इति भवति । ‘इक् कृष्यादिभ्यः’ (वा. 3-3-108) इतीक्प्रत्यये भिदिः इत्यपि
भवति ।
Footnote 2. यङन्तात् णिचि ल्यपि, ‘ल्यपि लघुपूर्वात्’ (6-4-56) इति णेरयादेशः । काशि-
कायाम् (6-4-56) उदाहृतोऽयम् ।
Footnote 3. ‘पॄभिदि—’ (द. उ. 1-108) इति कुप्रत्ययः । भिदुः = वज्रम् ।
Footnote 4. ‘इषिमदिमुदिखिदिच्छिदिभिदि—’ (द. उ. 8-26) इति किरच्प्रत्यये रूपमेवम् ।
भिदिरम् = भेदः ।
Footnote 5. औणादिके (द. उ. 8-31) रक्प्रत्यये रूपमेवम् । भिद्रः = शरः । [ID=1160]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

विद्यते

A

विद् विदँ सत्तायाम् दिवादिः आत्मनेपदी अकर्मकः अनिट् to exist

[Printed book page 1235]
(1603) “विद सत्तायाम्” (IV-दिवादिः-1171. अक. अनि. आत्म.)
‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे ।’ (श्लो. 111) इति देवः ।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका;
वेदिता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यति (349) वत् बोध्यानि ।
शानचि-विद्यमानः, णिनिप्रत्यये-वेदी, क्तिनि-वित्तिः, इमानि रूपाणि विशेषेण
भवन्ति । [ID=1602]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

विन्दति

A

विद् लाभे तुदादिः उभयपदी सकर्मकः सेट् to obtain to receive

विदॢ [Printed book page 1236]
(1606) “विदॢ लाभे”
(VI-तुदादिः-1432. सक. अनि. उभ.) मुचादिः ।
‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि ॥’ (श्लो. 111) इति देवः ।
व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता इति ।
[Page1237+ 30]

वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-[विवित्सकः]-षिका, वेविदकः-दिका;
वेदिता, [वेत्ता]-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री,
वेविदिता-त्री; इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् (193) ज्ञेयानि ।
शतरि 1 विन्दः A, 2 गोविन्दः-कुविन्दः, B अरविन्दम् 3, 4 वित्तम्- [धनम्],
विन्नं [लब्धम्], 5 परिवेत्ता, विविद्वान् 6 -विविदिवान्, 7 वेदना C
[Page1238+ 28]
1 परिवित्तिः, 2 ब्राह्मणवेदं [भोजयति], 3 यावद्वेदं [भोजयति], 4 चोरवेदं
निहन्त्यसौ] ।
Footnote 1. ‘अनुपसर्गाल्लिम्पविन्द—’ (3-1-138) इति शप्रत्यये मुचादित्वात् ‘शे मुचा-
दीनाम्’ (7-1-59) इति नुमि शपि पररूपे च रूपमेवम् ।
Footnote A. ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत् ।’ भ. का. 1-15.
Footnote 2. ‘गवादिषु विन्देः संज्ञायाम्’ (वा. 3-1-138) इति शः । गां विन्दतीति
गोविन्दः । एवं कुविन्दह् इति प्रक्रियासर्वस्वे ।
Footnote B. ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।’ शि. व. 3-65
Footnote 3. अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति
— लभत इत्यर्थः । भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते । ‘कर्मण्यण्’
(3-2-1) बाधनाय इदम् इति बृ. शेखरे ।
Footnote 4. ‘वित्तो भोगप्रत्यययोः’ (8-2-58) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो
निपात्यते । वित्तोऽयं मनुष्यः । प्रतीत इत्यर्थः । वित्तम् धनम्, वित्तं प्रसिद्धम्,
भुज्यत इति भोगो धनम् । प्रतीयत इति प्रत्ययः प्रसिद्धम् । अन्यत्र
विन्नम् ।
Footnote 5. तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द. उ. 2-1) इति
संज्ञायां गम्यमानायामनिटौ भवतः । ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’
इत्यमरः । ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते ।
क्वसुप्रत्यये ‘विभाषा गमहनविद—’ (7-2-68) इतीड्विकल्पनात्, निष्ठायाम्,
‘यस्य विभाषा’ (7-2-15) इतीण्निषेधः । तेन निष्ठानत्वपक्षे, नत्वाभा-
वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम् । कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात्
तेषां मते निष्ठायामिण्निषेधः सिद्ध एव । भाष्यादिषु तु धातुरयं सेडित्येव
सम्मतः । विस्तरस्तु माधवीये द्रष्टव्यः ।
Footnote 6. ‘विभाषा गमहनविदविशाम्’ (7-2-68) इति क्वसौ विकल्पेन इडागमो भवति ।
तेन रूपद्वयम् । विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् ।
Footnote 7. ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (3-3-107) इति युचि रूपमेवम् ।
Footnote C. ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम् ॥’ भ. का. 7-73
Footnote 1. ‘क्तिच्क्तौ च संज्ञायाम्’ (3-3-174) इति क्तिच् । ‘परिवित्तिस्तु तज्ज्यायान्’
इत्यमरः ।
Footnote 2. ‘कर्मणि दृशिविदोः साकल्ये’ (3-4-29) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल्
भवति । यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः ।
अत्र सत्तार्थस्यैकस्य न ग्रहः; अकर्मकत्वात् ।
Footnote 3. ‘यावति विन्दजीवोः’ (3-4-30) इति णमुल्प्रत्ययः । यावत् लभते तावद्
भुङ्क्त इत्यर्थः ।
Footnote 4. चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि
हन्तीत्यर्थे ‘कर्मणि दृशिविदोः—’ (3-4-20) इति णमुल् । ‘चोरवेदं निह-
न्त्यसौ—’ इति प्र. सर्वस्वे । [ID=1605]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

शीयते

A

शद् शदॢँ शातने भ्वादिः परस्मैपदी अकर्मकः अनिट् to perish to fall to wither to decay to wear off to fall to wane to throw down

शदॢ [Printed book page 1284]
(1681) “शदॢ शातने” (I-भ्वादिः-855. सक. अनि. पर.)
ज्वलादिः । ‘— अवशातने’ इति जैनः । शातनम्-तनूकरणमिति क्षीरस्वामी ।
‘— शातनम्-तीक्ष्णीभावः । विशीर्णतायामित्येके । 2 गतावप्यस्ति’ इति
धा. का. व्याख्यायाम् (2-24) । “‘— विशातने’ विशीर्णतायां वर्तते,
शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा. धा. वृत्तिः ।
शादकः-दिका, शादकः-दिका, पुष्पाणां 3 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका;
शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री;
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ (968) धातुवत् ऊह्यानि । 4 शादः, शदः, शाद्वलम्,
[Page1285+ 28]

शद्रुः, 2 शत्रुः । 3 शीयमानः ।
Footnote 2. ‘शदेरगतौ तः’ (7-3-42) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य
गतिरप्यर्थ इति ।
Footnote 3. णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (7-3-42) इति दकारस्य तकारः । गत्यर्थकत्वे तु
‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे न तकारः । ‘पुष्पाणि शातयन्’
इत्यादिषु तु भवत्येव । एवं सर्वत्र ज्ञेयम् ।
Footnote 4. संज्ञायां घञ् । शादः = तृणविशेषः । शद इति तु आयुधविशेषः । संज्ञायामत्र
घः । शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’
(4-2-88) इति मत्वर्थीयो ड्वलच्प्रत्ययः । प्रत्ययस्य डित्त्वात् टिलोपः ।
Footnote 2. शातयतीति शत्रुः = अरिः । णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः
‘रुशदिभ्यां त्रुन्’ (द. उ. 1-159) इति त्रुन्प्रत्ययः; बाहुलकात् णेर्लोपः, वृद्ध्य-
भावश्च । प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः; इत्यादिकमूह्यम् ।
Footnote 3. ‘शदेः शितः’ (1-3-60) इति आत्मनेपदम् । शिद्भावी यः शदिधातुः स तङं
लभते इति निष्कृष्टोऽर्थः । विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः । ‘पाघ्राघ्मास्था-
म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (7-3-78)
इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः । एवञ्चास्य धातोः शता
नेति अवधेयम् । [ID=1680]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

शीयत

A

े शद् शदॢँ शातने तुदादिः परस्मैपदी अकर्मकः अनिट् to go to lose energy to move to be sad

[Printed book page 1285]
(1682) “शदॢ शातने” (VI-तुदादिः-1428. सक. अनि. पर.)
शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-
दिका; शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् (1681)
ज्ञेयानि । भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः । ‘शदेः शितः’
(1-3-60) इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते,
येन ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुम्विकल्पः प्रयोजयितुं शक्येत ।
ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः ।
वस्तुतस्तु शपः-शप्रत्ययस्य च प्रसक्त्यभावात्—शब्निमित्तकः पित्स्वरोऽनुदात्तः,
शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं
शक्यमित्यास्तां तावत् । [ID=1681]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

सीदति

A

सद् षदॢँ विशरणगत्यवसादनेषु भ्वादिः परस्मैपदी अकर्मकः अनिट् to go to lose power to be tired to dry up to destroy to wither to despond to lose interest

षदॢ [Printed book page 1335]
(1814) “षदॢ विशरणगत्यवसादनेषु”
(I-भ्वादिः-854-सक. अनिट्. पर.) ज्वलादिः ।
‘ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके ।
पद्यतेरर्थ आसीदेद् आसादयति चाङि यौ ॥’ (श्लो. 108) देवः ।
“— ‘विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः ।’ इति च श्लोकधातु-
पाठः ।” इति पुरुषकारः ।
सादकः-दिका, सादकः-दिका, सिषत्सकः-त्सिका, 6 सासदकः-दिका; 7 सत्ता-सत्त्री, सादयिता-त्री, सिषत्सिता-त्री, सासदिता-त्री;
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकखदतिवत् (338) ज्ञेयानि । 8 निषीदन्-प्रतिसीदन्-न्ती,
[Page1336+ 33]
1 निषादः, सादः-सदः, 2 प्रासादः, 3 उपनिषत्-परिषत्-शुचिषत्-द्युसत्-दिविषत्, 4 बृसी, 5 विषण्णः-विषण्णवान्, 6 निषिषत्सुः, 7 सेदिवान्, 8 सद्रुः, 9 निषद्या, 10 सादी, 11 सेदिः; 12 सदः, 13 निषद्वरः, 14 सादिः,
[Page1337+ 29]
1 सत्त्रम् इतीमानि विशेषरूपाणि ।
Footnote 6. ‘लुपसद—’ (3-1-24) इति भावगर्हायां यङ् । भावगर्हा = धात्वर्थे कुत्साविशिष्ट-
त्वम् । गर्हितं सीदति सासद्यते । अयं यङ् ‘धातोरेकाचः—’ (3-1-22) इति
औत्सर्गिकयङोऽपवादः इति प्राञ्चः । नेति नव्याः ।
Footnote 7. धातोरनिट्त्वम् । दकारस्य चर्त्वेन तकारः । एवं तव्यदादिष्वपि ।
Footnote 8. शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छ-
धौशीयसीदाः’ (7-3-78) इति सीद इति सर्वादेशः । ‘सदिरप्रतेः’ (8-3-66)
इति इणन्तादुपसर्गात् परस्य सदिसकारस्य षत्वे रूपमेवम् । ‘अप्रतेः’ इत्युक्तत्वात्
प्रतिसीदन् इत्यत्र न षत्वम् । उपसर्गप्रकरणात् ‘नि’ इति कर्मप्रवचनीयस्य
न षत्वम् ।
Footnote 1. ‘ज्वलितिकसन्तेभ्यः—’ (3-1-140) इति कर्तरि णः । निषादः वन्यजातिविशेषः ।
पक्षे पचाद्यचि सदः इत्यपि साधुः । माधवस्तु “निषीदत्यस्मिन् पापमिति
निषादः । ‘हलश्च’ (3-3-121) इति अधिकरणे घञ्” इत्याह । संज्ञाऽत्रेति
विशेषः ।
Footnote 2. ‘अकर्तरि च कारके संज्ञायाम्’ (3-3-19) इत्यधिकरणे घञ् । प्रसीदन्ति धनिनो-
स्मिन् इति प्रासादः धनिनां वासः । ‘उपसर्गस्य घञि—’ (6-3-122) इति ‘प्र’
इत्यस्य दीर्घः । संज्ञायामेव मनुष्यभिन्नेऽपि स्थले दीर्घः; अन्यत्र न; ततश्च
‘प्रसादः’ इत्यत्र न ।
Footnote 3. उप निषीदन्ति, उप निषादयन्ति वा इति उपनिषत् । स्त्रियां सम्पदादित्वात्
(वा. 3-3-108) क्विपि षत्वे च रूपमेवम् । एवं परिषत् इत्यादयोऽपि ।
द्युसत्, दिविषत्, शुचिषत् इत्यादयस्तु ‘सत्सूद्विष—’ (3-2-61) इत्यादिना
क्विपि सम्पद्यन्ते । पर्षत् इति तु पृषोदरादित्वात् (6-3-109) परेरिकारलोपे
साधुः । दिविषत् इत्यत्र ‘तत्पुरुषे कृति—’ (6-3-14) इति सप्तम्या अलुक् ।
सुषामादित्वात् (8-3-98) षत्वम् । ये स्त्रीलिङ्गशब्दाः संसत् इत्यादयः, ते
सम्पदादिक्विबन्ताः; ये तु पुँल्लिङ्गशब्दाः, ते ‘सत्सू—’ (3-2-61) इति निष्पन्नाः
इति वैयाकरणसम्प्रदायः ।
Footnote 4. ब्रुवन्तः सीदन्त्यस्यामिति बृसी = मुनीनामासनम् । पृषोदरादित्वात् ब्रुवच्छब्दस्य
‘बृ’ इत्यादेशः । सदेरधिकरणे डट्प्रत्ययः । टित्त्वात् स्त्रियां डीप् ।
Footnote 5. ‘रदाभ्यां—’ (8-2-42) इति निष्ठातकारस्य धातुदकारस्य च नकारः । षत्वम्,
णत्वं च ।
Footnote 6. सन्नन्तादुप्रत्ययः । ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (8-3-64) इति पूर्वोत्तरखण्डयोः
षत्वम् ।
Footnote 7. लिटः ‘भाषायां सदवस—’ (3-2-108) इति क्वसुप्रत्ययः; एत्वाभ्यासलोपः ।
‘वस्वेकाच्—’ (7-2-67) इतीडागमः ।
Footnote 8. ‘दाधेट्सिशदसदो रुः’ (3-2-159) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः ।
Footnote 9. स्त्रियां ‘संज्ञायां समजनिंषद—’ (3-3-99) इत्यादिना अकर्तरि क्यप्प्रत्ययः ।
निषद्या = वासस्थानम् ।
Footnote 10. साधुकारिणि णिनिप्रत्ययः । सादी = अश्वस्योपरि स्थित्वा युघ्यमानः ।
Footnote 11. ‘सदादिभ्यो दर्शनात्’ (वा. 3-2-171) इति वचनात् भाषायां किप्रत्ययः ।
छन्दस्येवायम् । प्रत्ययस्य लिड्वद्भावात् एत्वाभ्यासलोपौ ।
Footnote 12. औणादिकेऽसुन्प्रत्यये रूपम् । सदः सभा ।
Footnote 13. ‘नौ सदेः’ (द. उ. 8-48) इति वरच्प्रत्ययः । निषद्वरः = कामः, कर्दमश्च ।
Footnote 14. ‘इण् अजादिभ्यः’ (वा. 3-3-108) इति इण् । सादिः अश्वस्थो योद्धा ।
Footnote 1. औणादिके (द. उ. 8-89) त्रप्रत्यये रूपम् । धातुदकारस्य चर्त्वेन तकारः । सत्त्रम् =
यागविशेषः, अन्नशाला च । [ID=1813]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

स्विद्यति

A

स्विद् ञिष्विदाँ अव्यक्ते शब्दे दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः ( to sweat, to perspire )

ष्विदा [Printed book page 1370]
(1894) “ञि ष्विदा गात्रप्रस्रवणे”
(I-भ्वादिः-744. अक. सेट्. आत्म.)
‘गात्रप्रक्षरणे स्विद्येत् स्वेदते स्नेहमोकयोः ।’ (श्लो. 107) इति देवः ।
‘गात्रप्रक्षरणे’ इति माधवादयः । उभयथाऽपि स्वेदस्य = घर्माम्भसो विवक्षाऽत्र ।
‘स्नेहनमोचनयोः’ इति हरदत्तादयः (पदमञ्जरी 1-2-19) । सामान्यरूपाणि
भौवादिकक्ष्वेदतिवत् (326) बोध्यानि । 1 स्निन्नः, 2 प्रस्वेदितः-प्रस्वेदितम्, 3 सिस्वेदयिषुः ।
Footnote 1. ‘ञीतः क्तः’ (3-2-187) इति वर्तमाने क्तः । ‘आदितश्च’ (7-2-16) इति
निष्ठायामिण्निषेधः । ‘रदाभ्यां—’ (8-2-42) इति निष्ठातकारस्य, धातुदकारस्य च
नकारः ।
Footnote 2. ‘विभाषा भावादिकर्मणोः’ (7-2-17) इति इड्विकल्पः । ‘निष्टा शीङ्स्विदि—’
(1-2-19) इति सेटो निष्ठायाः कित्त्वनिषेधः ।
Footnote 3. ण्यन्तात् सनि उप्रत्यये रूपमेवम् । ‘सः स्विदि—’ (8-3-62) इति अभ्यासात्
परस्य सकारः । ‘स्तौतिण्योरेव षणि—’ (8-3-61) इत्यस्यापवादः । [ID=1893]
(1895) “ष्विदा गात्रप्रक्षरणे”
(IV-दिवादिः-1188. अक. अनि. पर.)
‘गात्रप्रक्षरणे स्विद्येत, स्वेदते स्नेहमोकयोः ।’ (श्लो. 107) इति देवः ।
सर्वाण्यपि रूपाणि दैवादिकक्रुध्यतिवत् (277) बोध्यानि । ‘निष्ठा शीङ्-
स्विदि—’ (1-2-19) इत्यत्र ञीतां क्ष्विदादीनां साहचर्यात् ञीतो भौवादिकस्यैव
ग्रहणमिति पदमञ्जरी । अयमपि ञीत् इति न्यासकारः । तत्तु पुरुषकारे
धातुवृत्तौ च खण्डितम् । भावादिकर्मणोः प्रस्वेदितम्-प्रस्वेदितः इत्यस्यापि रूपे ।
आदित्त्वमस्य सर्वसम्मतम् । अयं परस्मैपदी, भौवादिकस्तु आत्मनेपदीति;
अयमनिट्, भौवादिकः सेट् इति च विशेषः । [ID=1894]

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

स्कन्दति

A

स्कन्द् स्कन्दिँर् गतिशोषणयोः भ्वादिः परस्मैपदी सकर्मकः अनिट् to go to dry

स्कन्दिर् [Printed book page 1381]
(1922) “स्कन्दिर् गतिशोषणयोः” (I-भ्वादिः-979. सक. अनि. पर.)
‘— शोषणे’ इति स्वामी । अन्ये सर्वे ‘— गतिशोषणयोः’ इत्येव पठन्ति ।
स्कन्दकः-न्दिका, स्कन्दकः-न्दिका, 2 चिस्कन्त्सकः-त्सिका, 3 चनीस्कन्दकः-न्दिका;
इत्यादीनि रूपाणि सर्वाण्यपि ‘णिजिर्’ (673) धातुवत् बोध्यानि ।
निष्ठायाम् 4 विस्कन्नः, 5 स्कन्दः,
[Page1382+ 35]
1 उत्कन्दः, 2 विष्कन्ता-विस्कन्ता, 3 परिष्कन्ता-परिस्कन्ता, 4 परिष्कण्णः,
परिस्कन्नः, 5 परिस्कन्दः, 6 स्कन्त्वा, प्रस्कन्द्य, 7 गेहावस्कन्दमास्ते । गेहं
गेहमवस्कन्दम्, गेहमवस्कन्दमवस्कन्दम्, गेहंगेहमवस्कन्द्य,
[Page1383+ 29]
1 स्कन्धः, 2 कन्दुः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम् ।
Footnote 2. सन्नन्ते ‘शर्पूर्वाः खयः’ (7-4-61) इति खयः शेषः । ककारस्य ‘अभ्यासे चर्च’
(8-4-54) इति चर्त्वेन चकारः । धातुरयमनिट् । धातुदकारस्य सनि परे ‘खरि
च’ (8-4-55) इति चर्त्वेन तकारः । एवं सर्वत्र सन्नन्तेषु प्रक्रिया ज्ञेया ।
Footnote 3. यङन्ते, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (7-4-84) इति अभ्यासे
नीगागमः सर्वत्र बोध्यः ।
Footnote 4. निष्ठायाम्, ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (8-2-42) इति निष्ठातकार-
धातुदकारयोर्नत्वम् । ‘वेः स्कन्देरनिष्ठायाम्’ (8-3-73) इति पर्युदासात् न
षत्वम् ।
Footnote 5. स्कन्दयति = शोषयति भक्तानां पापमिति, पचाद्यचि स्कन्दः = कार्तिकेयः ।
Footnote 1. उत्कन्दति = शोषयति इति उत्कन्दः रोगविशेषः । उत्पूर्वकात् स्कन्देः
पचाद्यच् । ‘रोगाख्यायां ण्वुल् बहुलम्’ (3-3-108) इति ण्वुलोऽपवादः ।
‘रोगे चेति वक्तव्यम्’ (वा. 8-4-61) इति वचनात् स्कन्देः सकारस्य पूर्वसवर्ण-
स्तकारः । ‘सवर्णग्रहणसामर्थ्यात् इह (8-4-65) संख्यातानुदेशो न भवति;
(तेन) सवर्णमात्रे लोपो विज्ञायते ।’ इति काशिकादिषूक्तत्वात् एकस्य तकारस्य
प्रयोगे न श्रवणम् इत्याहुः । वस्तुतस्तकारद्वयस्यैव ‘उत्त्कन्दः’ इति श्रवणं
न्याय्यं इति भाष्यादिषु स्पष्टमित्यलमत्र ।
Footnote 2. विपूर्वकात् तृचि, धातुदकारस्य चर्त्वेन तकारे, ‘झरो झरि सवर्णे’ (8-4-65)
इति तस्य लोपे, ‘वेः स्कन्देरनिष्ठायाम्’ (8-3-73) इति षत्वविकल्पे च
रूपद्वयम् । ‘झरो झरि—’ (8-4-65) इत्यत्र ‘अन्यतरस्याम्’ इत्यनुवृत्तेर्लोपस्य
पाक्षिकत्वं विस्कन्त्ता—विष्कन्त्ता इति च रूपद्वयमिष्टमिति ज्ञेयम् । एवं
तव्यदादिष्वपि विष्कन्तव्यम्—विस्कन्तव्यम् इत्यादीनि रूपाण्यूह्यानि यथा-
सम्भवम् ।
Footnote 3. ‘परेश्च’ (8-3-74) इति षत्वविकल्पः । एवं तव्यदादिष्वपि बोध्यम् ।
Footnote 4. ‘निपरिभ्यां स्कन्देरनिष्ठायाम्’ इत्यनुक्त्वा पृथग् ‘परेश्च’ (8-3-74) इति
योगकरणात् परिस्कन्नः—परिष्कण्णः इत्यत्र परिपूर्वकात् स्कन्दतेर्निष्ठायां
षत्वविकल्पो भवत्येवेति काशिकादिषु स्पष्टम् । तेनैवं रूपमिति बोध्यम् ।
निष्ठानत्वमुभयत्र समानम् । षत्वपक्षे णत्वमपि भवतीति विशेषः ।
Footnote 5. परिपूर्वकात् स्कन्दतेः पचाद्यचि, प्राच्यभरतविषयत्वे वाच्ये ‘परिस्कन्दः
प्राच्यभरतेषु’ (8-3-75) इति निपातनात् षत्वाभावः । अन्यत्र परिष्कन्दः ।
केचित् परिपूर्वकात् स्कन्दतेः निष्ठायां निष्ठातकारलोपनिपातनमनेन सूत्रेण क्रियत
इति व्याचख्युः ।
Footnote 6. क्त्वायाम्, धातुदकारस्य चर्त्वे, ‘झरो झरि—’ (8-4-65) इति तकारस्य पाक्षिके
लोपे च रूपमेवम् ।
Footnote 7. ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (3-4-56) इति णमुल् ।
क्रियया पदार्थानां अनवयवेन सम्बन्धः = व्याप्यमानत्वम् । तात्पर्यम् =
आसेवा । द्रव्ये व्याप्तिः, क्रियायाम् आसेवा । ‘तृतीयाप्रभृतीनि च’ (2-2-21)
इति समासविकल्पः । ‘गेहावस्कन्दमास्ते’ इति समासेन व्याप्त्यासेवयो-
रुक्तत्वात् ‘नित्यवीप्सयोः’ (8-1-4) इति द्विर्वचनं न । असमासपक्षे व्याप्य-
मानतायां द्रव्यवचनस्य ‘गेहंगेहमवस्कन्दमास्ते’ इति द्विर्वचनम् । आसेव्यमान-
तायां तु ‘गेहमवस्कन्दमवस्कन्दमास्ते’ इति क्रियाया द्विर्वचनम् । “क्रिया-
भेदे क्त्वाऽपीष्यते इत्युक्तत्वात् ‘गेहंगेहमवस्कन्द्य’ इत्याद्यपि भवति” इति
माधवः ।
Footnote 1. ‘स्कन्देश्च स्वाङ्गे’ (द. उ. 9-67) इत्यसुन्प्रत्यये धातुदकारस्य धकारादेशे च रूपम् ।
Footnote 2. ‘स्कन्देर्लोपश्च’ (द. उ. 1-99) इत्युप्रत्यये, धात्वादिसकारस्य लोपे च रूपमेवम् । [ID=1921]

17
Q

हदते

A

हद् हदँ पुरीषोत्सर्गे भ्वादिः आत्मनेपदी अकर्मकः अनिट् to excrete

18
Q

खिन्दति

A

०६.०१७२ खिद्
खिदँ परिघाते( to distress, to irritate )
तुदादिः परस्मैपदी सकर्मकः सेट् मुचादिः

[Printed book page 0354]
(350) “खिद परिघाते” (VI-तुदादिः-1436. सक. अनि. पर.)
‘परितापे’ इति क्षीरस्वामी । मुचादिः ।
‘दैन्येऽर्थे खिद्यते खिन्ते, परितापे (घाते) तु खिन्दति ।’ (श्लो-112) इति देवः । 2 खिन्दन्-न्ती-ती, B खेत्स्यन्-न्ती-ती, C परिखेदितम्, इत्यादीनि रूपाण्यस्य
घातोः विशेषः । अन्यानि सर्वाण्यपि रूपाणि दैवादिकदैन्यार्थक (349)
खिद्यतिवत् ज्ञेयानि ।
Footnote 2. ‘तुदादिभ्यः शः’ (3-1-77) इति शः विकरणप्रत्ययः । ‘शे मुचादीनाम्’
(7-1-59) इति नुम् । ‘आच्छीनद्योर्नुम्’ (7-1-80) इति नुमो वैकल्पिकत्वम् ।
Footnote B. ‘मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चन् भियं
गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन् ।
भुक्त्वा गोरससिक्तमन्नमजितः कंसस्य कृन्तन् मुदं
तं खेत्स्यन् पिशिताशदारुणमसौ मोदेन निन्ये निशाम् ॥’ धा. का. 2-85.
Footnote C. ‘परिखेदितविन्ध्यवीरुधः परिपीतामलनिर्झराम्भसः ।
दुधुवुर्मधुकाननं ततः कपिनागा मुदिताङ्गदाज्ञया ॥’ भ. का. 10. 28. [ID=350]

19
Q

विन्ते

A

०७.००१३ विद्
विदँ विचारणे( to think, to meditate, to analyze, to reason upon )
रुधादिः आत्मनेपदी सकर्मकः अनिट्

[Printed book page 1236]
(1604) “विद विचारणे” (VII-रुधादिः-1450. सक. अनि. आत्म.)
‘— मीमांसे’ इति वोपदेवः ।
‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे ।’ (श्लो. 111) इति देवः ।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका;
वेत्ता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री;
इत्यादिकानि रूपाणि सर्वाणि दैवादिकखिद्यतिवत् (349) ज्ञेयानि । शानचि
विन्दानः, 1 निष्ठायाम्- 2 वित्तः-विन्नः इति च विशेषः । 3 वेदिः ।
Footnote 1. ‘रुधादिभ्यः श्नम्’ (3-1-78) इति विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’
(6-4-111) इति अल्लोपे च रूपमेवम् ।
Footnote 2. निष्ठायाम्, ‘नुदविदोन्दत्रा—’ (8-2-56) इति निष्ठातकारस्य नकारादेशो
विकल्पेन भवति । तेन रूपद्वयम् । तथा च भाष्यम् (7-2-58) –
‘वेत्तेस्तु विदितो निष्ठा विद्यतेः विन्न इष्यते ।
वित्तर्विन्नश्च वित्तश्च वित्तो भोगेषु विन्दतेः ॥’ इति ।
Footnote 3. औणादिके [द. उ. 1-47] इप्रत्यये रूपम् । वेत्ति विन्दति विन्ते वा वेदिः =
त्रेताग्न्यधिष्ठानम् । [ID=1603]

20
Q

सीदति

A

०६.०१६३ सद्
षदॢँ विशरणगत्यवसादनेषु( to go, to lose energy, to move, to be sad )
तुदादिः परस्मैपदी अकर्मकः अनिट्

[Printed book page 1337]
(1816) “षदॢ विशरणगत्यवसादनेषु”
(VI-तुदादिः-1427. सक. अनि. पर.)
शतरि नुम्विकल्पे सीदन्ती-सीदती इति द्वे रूपे । तदर्थमेव भौवादिकेषु पठि-
तस्यास्यात्र तुदादौ पुनः पाठः । ‘स्वरार्थं पुनः पाठः’ इति केचित् । केचिन्नै-
वामुमत्र पठन्ति । सर्वाण्यपि रूपाणि भौवादिकसीदतिवत् (1815) बोध्यानि । [ID=1815]

21
Q

हदते

A

०१.११३२ हद्
हदँ पुरीषोत्सर्गे( to excrete )
भ्वादिः आत्मनेपदी अकर्मकः अनिट्

हद [Printed book page 1405]
(1991) “हद पुरीषोत्सर्गे” (I-भ्वादिः-977. अक. अनिट्. आत्म.)
हादकः-दिका, हादकः-दिका, 2 जिहत्सकः-त्सिका, जाहदकः-दिका;
हन्नः-निष्ठातकारधातुदकारयोर्नकारः । इत्यादीनि रूपाणि सर्वाण्यपि आदादिकद्वेष्टि-
वत् (889) बोध्यानि ।
Footnote 2. ‘खरि च’ (8-4-55) इति चर्त्वेन धातुदकारस्य तकारः । [ID=1990]